NCERT Class Solutions
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
NCERT Class Solutions
No Result
View All Result
ADVERTISEMENT
Home Class 10th Solutions 10th Sanskrit

CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved

by Sudhir
August 4, 2022
in 10th Sanskrit, Class 10th Solutions
Reading Time: 4 mins read
0
NCERT Class 10th Sanskrit Solutions
197
VIEWS
Share on FacebookShare on Twitter

We are providing NCERT Solutions for Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved Solutions in easy way to get good marks in the Exam

CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved

समयः होरात्रयम्
सम्पूर्णाङ्काः – 80

सामान्यनिर्देशाः

  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
  • प्रत्येकं खण्डम् अधिकृत्य एकस्मिन् स्थाने क्रमेण उत्तराणि लेखनीयानि।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नपत्रानुसारं प्रश्नसंख्या अवश्यमेव लेखनीया।

खण्ड – ‘क’
(अपठितः अनुच्छेदः – 10 अङ्काः)

प्रश्न 1.
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) (1 × 2 = 2)
(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः?
(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः?
(ग) बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?
उत्तरम्:
(क) गुणाधानस्य
(ख) शरीरस्वास्थ्यरक्षायै
(ग) चरित्रनिर्माणे

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव) (2 × 2 = 4)
(क) जीवनं कदा सुखमयं भवति?
(ख) कौ अस्माभिः सह सदैव तिष्ठतः?
(ग) शरीरस्वास्थ्यरक्षायै किं कर्तव्यम्?
उत्तरम्:
(क) यदा बाल्यकाले वयं परिश्रमं कुर्मः तदा जीवनं सुखमयं भवति।
(ख) आचाराः व्यवहारः च अस्माभिः सह सदैव तिष्ठतः।
(ग) शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(iii) निर्देशानुसारम् उत्तरत (केवलं प्रश्नत्रयमेव) (1 × 3 = 3)
(क) ‘अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(i) ध्यानमनसा
(ii) सावधानमनसा
(ii) मनसा
(iv) सावधानेन
उत्तरम्:
(ii) सावधानमनसा

(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्?
(i) पूर्णः
(ii) महत्त्वम्
(iii) काल:
(iv) महत्त्वपूर्णः
उत्तरम्:
(iv) महत्त्वपूर्णः

(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्?
(i) कालः
(ii) भवति
(iii) जीवनस्य
(iv) बाल्यावस्था
उत्तरम्:
(ii) भवति

(घ) अनुच्छेदात् ‘समयः’ इति पदस्य पर्यायं चित्वा लिखत।
(i) आचारः
(ii) संस्काराः
(iii) प्रयत्नः
(iv) काल:
उत्तरम्:
(iv) कालः

(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत। (1 × 1 = 1)
उत्तरम्:
बाल्यावस्थायाः महत्त्वम्

खण्ड – ‘ख’
(रचनात्मक कार्यम् – 15 अङ्काः)

प्रश्न 2.
भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत- (½ × 10 = 5)

मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः

छात्रावासतः
दिनाङ्कः _______

पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने (i) _______ अस्मि। आशासे भवान् अपि (ii) _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके (iii) _______ शिक्षकै सह (iv) _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः (v) _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि। (vi) _______ सहस्ररूप्यकाणि अपि आवश्यकानि। (vii) _______ स्वमन्तव्यं सूचयतु। यदि (viii) _______ सम्मतिः अस्ति (ix) _______ अपि प्रेषयतु। (x) _______ मम प्रणतिः निवेदनीया।

भवतः पुत्रः
अनिमेषः

उत्तरम्:
(i) व्यस्तः
(ii) कुशली
(iii) छात्राः
(iv) शैक्षिकयात्रार्थम्
(v) अनुमतिः
(vi) यात्राव्ययार्थम्
(vii) यथाशीघ्रम्
(viii) भवतः
(ix) रूप्यकाणि
(x) मातृचरणयोः।

प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत- (5)
CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved Q3
अथवा
‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत।

मञ्जूषा – वैश्विक-उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्

उत्तरम्:
1. इदं चित्रं विजयदशमी पर्वणः अस्ति।
2. चित्रे श्रीरामः रावणं बाणेन हन्ति)
3. रावणः पापस्य प्रतीकः अस्ति।
4. सः रामस्य भार्या सीताम् अहरत्।
5. श्रीरामः तं हत्वा सीताम् अमोचयत्।
अथवा
1. वर्धमानं प्रदूषणं मानवजीवनस्य नाशकः अस्ति।
2. अनेन वैश्विक उष्णता विषाक्त वायुः प्रदूषणं च वर्धन्ते।
3. प्रदूषणं तु जलप्रदूषणं, वायु प्रदूषणं ध्वनिप्रदूषणं इति त्रिधा भवति।
4. नगराणां कोलाहलः विषाक्त वायुः चापि प्रदूषणं वर्धयतः।
5. अतः प्रदूषणस्य निवारणाय यन्त्रागारं दूरं निर्माय शुचिपर्यावरणं कर्तव्यम्।

प्रश्न 4.
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत (केवलं पञ्च एव)
(i) छात्र विद्यालय जाता है। A student goes to school.
(ii) मैं परिश्रम करता हूँ। I work hard.
(iii) तुम क्या करते हो? What do you do?
(iv) पिता के साथ पुत्र घूमता है। Son walk with his father.
(v) शिक्षक पाठ पढ़ाते हैं। Teacher teaches the lesson.
(vi) वे सब पढ़ने में कुशल बनें। They all are become pefect in reading.
उत्तरम्:
(i) छात्रः विद्यालयं गच्छति।
(ii) अहम् परिश्रमं करोमि।
(iii) त्वम् किं करोषि।
(iv) पित्रा सह पुत्रः भ्रमति।
(v) शिक्षकाः पाठं पाठयति।
(vi) ते पठने कुशलाः भवेयुः/भवन्तु।

खण्ड – ‘ग’
(अनुप्रयुक्त-व्याकरणम् – 25 अङ्काः)

प्रश्न 5.
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत (केवलं चत्वारि एव) (1 × 4 = 4)

(i) पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता।
(ii) सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
(iii) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
(iv) स एवं वह्निः + दहते शरीरम्।
(v) ओम् जय जगत् + ईश हरे।
उत्तरम्:
(i) तपः + तेपे
(ii) फल + छायासमन्वितः
(iii) किञ्चित् + निरर्थकम्
(iv) वह्निर्दहते
(v) जगदीश

प्रश्न 6.
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत (केवलं चत्वारि एव) (1 × 4 = 4)

(i) यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?
(क) कृष्णवर्णा
(ख) कृष्णवर्णम्
(ग) कृष्णवर्णः
(घ) कृष्णवर्णाः
उत्तरम्:
(ग) कृष्णवर्णः

(ii) सर्वेषां महत्त्वं विद्यते समयम् अनतिक्रम्य।
(क) यथासमयम्
(ख) यथासमयः
(ग) यथासमय
(घ) यथासमयाय
उत्तरम्:
(क) यथासमयम्

(iii) मिलित्वा प्रकृतेः सौन्दर्यम् रक्षणीयम्।
(क) प्रकृति सौन्दर्य
(ख) प्रकृतिसौन्दर्यः
(ग) प्राकृति सौन्दर्यः
(घ) प्रकृतिसौन्दर्यम्
उत्तरम्:
(घ) प्रकृतिसौन्दर्यम्

(iv) माता च पिता च वन्दनीयौ।
(क) मातापितौ
(ख) पितरौ / मातापितरौ
(ग) पितौ
(घ) मातरौ
उत्तरम्:
(ख) पितरौ / मातापितरौ

(v) महात्मा सर्वत्र पूज्यते।
(क) महान् आत्मा यस्य सः
(ख) महान् आत्मा (ग) महान् आत्मा यस्यः सा
(घ) महान्तः आत्मायस्य सः
उत्तरम्:
(क) महान् आत्मा यस्य सः

प्रश्न 7.
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत (केवलं चत्वारि मव) (1 × 4 = 4)

(i) श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् _______।
(क) सहिष्णुतल्
(ख) सहिष्णुता
(ग) सहिष्णुताम्
(घ) सहिष्णुतया
उत्तरम्:
(ख) सहिष्णुता

(ii) वैज्ञानिकाः ___________ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(क) वैज्ञान + ठक्
(ख) विज्ञान + ठक्
(ग) विज्ञान + इक
(घ) विज्ञानी + अक्
उत्तरम्:
(ख) विज्ञान + ठक्

(iii) बुद्धि + मतुप ___________ सर्वत्र पूज्यते।
(क) बुद्धिमत्
(ख) बुद्धिमन्
(ग) बुद्धिवान्
(घ) बुद्धिमान्
उत्तरम्:
(घ) बुद्धिमान्

(iv) राजसिहंस्य पत्नी बुद्धिमती ___________ आसीत्।
(क) बुद्धिमत् + डीप्
(ख) बुद्धि + मती
(ग) बुद्धि + मतुप्
(घ) बुद्धि + मतु
उत्तरम्:
(क) बुद्धिमत् + ङीप्

(v) मानवत्वम् _____________ एव सर्वत्र पूज्यते।
(क) मानव + तव
(ख) मानव + त्वम्
(ग) मानव + त्व
(घ) मानव + त्वाम्
उत्तरम्:
(ग) मानव + त्व

प्रश्न 8.
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत (केवलं त्रीणि एव) (1 × 3 = 3)

(i) _______ सत्यं कथ्यते। (त्वम् / त्वाम् / त्वया)
(ii) काकः पिकस्य _______ पालयति। (सन्तति: / सन्ततिम् / सन्तत्या)
(iii) पित्रा पुत्राय विद्याधनं _______। (ददाति / दीयते / यच्छति)
(iv) पुत्रः अपि तस्मै धन्यवादं _______। (कुर्वन्ति / करोति / करोषि)
उत्तरम्:
(i) त्वया
(ii) सन्ततिम्
(iii) दीयते
(iv) करोति

प्रश्न 9.
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत (केवलं चत्वारि एव) (1 × 4 = 4)

(i) बालकः _______ वादने उत्तिष्ठति। (6:00)
(ii) सः _______ वादने विद्यालयं गच्छति। (7:15)
(iii) _______ वादने विद्यालये अर्धावकाशः भवति। (11:30)
(iv) सः _______ वादने विद्यालयात् गृहम् गच्छति। (1:45)
(v) पुनः बालक: सायं _______ वादने पठनाय उपविशति (5:15)
उत्तरम्:
(i) षड्
(ii) सपादसप्त
(iii) सार्ध-एकादश
(iv) पादोन द्वि
(v) सपादपञ्च

प्रश्न 10.
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत- (½ × 6 = 3)

मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि

(i) ___________ परिश्रमं कुर्मः ___________ सफलाः भवामः।
(ii) ___________ समयस्य सदुपयोगः करणीयः।
(iii) जीवनम् ___________ दुर्वहं जातमस्ति ।
(iv) ___________ हरीतिमा ___________ पर्यावरणं शुद्धम्।
उत्तरम्:
(i) यदि, तर्हि
(ii) सदा
(iii) अद्य
(iv) यत्र, तत्र

प्रश्न 11.
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत (केवलं त्रीणि एव) (1 × 3 = 3)

(i) ते नार्यः गल्पं कुर्वन्ति।
(क) सा
(ख) तौ
(ग) ताः
(घ) सः
उत्तरम्:
ताः नार्यः गल्पं कुर्वन्ति।

(ii) अहं परिश्रमं करोति।
(क) सः
(ख) तौ
(ग) ते
(घ) त्वम्
उत्तरम्:
सः परिश्रमं करोति।

(iii) बालकः कार्यं कुर्वन्ति।
(क) बालकौ
(ख) बालकाः
(ग) बालिके
(घ) बालिका
उत्तरम्:
बालकाः कार्यं कुर्वन्ति।

(iv) त्रयः बालिकाः गीतं गायन्ति।
(क) त्रीणि
(ख) त्रि
(ग) तिस्रः
(घ) चतुरः
उत्तरम्:
तिस्रः बालिकाः गीतं गायन्ति।

खण्ड – ‘घ’
(पठित-अवबोधनम् – 30 अङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।
(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) (½ × 2 = 2)
(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्?
(ख) अर्थकार्येन पीडितः सः केन प्राचलत्?
(ग) जनः कीदृशो आसीत्?
उत्तरम्:
(क) वित्तम्
(ख) पदातिः
(ग) निर्धनः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नएकमेव) (1 × 1 = 1)
(क) निर्धनः जनः वित्तेन किं कृतवान्?
(ख) तस्य तनयः छात्रावासे कस्मिन् संलग्नः समभूत्?
उत्तरम्:
(क) निर्धनः जनः वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलः भूतवान्।
(ख) तस्य तनयः छात्रावासे अध्ययने संलग्नः समभूत्।

(iii) निर्देशानुसारम् उत्तरत (केवलं प्रश्नत्रयमेव) (1 × 3 = 3)
(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?
(ग) ‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(घ) अनुच्छेदे ‘गृहीत्वा’ पदस्य कः विपर्ययः आगतः?
उत्तरम्:
(क) वित्तम्
(ख) निर्धनः
(ग) निर्धनजनाय / निर्धनपित्रे
(घ) विहाय

प्रश्न 13.
अधोलिखितं पद्याशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) (½ × 2 = 1)
(क) केन उदीरितः अर्थः गृह्यते?
(ख) का: परेङ्गितज्ञानफलाः भवन्ति?
(ग) अनुक्तम् अपि कीदृशः जनः ऊहति?
उत्तरम्:
(क) पशुना
(ख) बुद्धयः
(ग) पण्डितः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नएकमेव) (1 × 1 = 1)
(क) पण्डितः जनः किम् ऊहति?
(ख) के बोधिताः बहन्ति?
उत्तरम्:
(क) पडितः जनः अनुक्तम् अपि ऊहति।
(ख) हयाः च नागाः च बोधिता: वहन्ति।

(iii) निर्देशानुसारम् उत्तरत (केवलं प्रश्नत्रयमेव) (1 × 3 = 3)
(क) ‘अश्वाः ‘ इति अर्थे पद्ये किं पदं प्रयुक्तम्?
(ख) ‘मूर्खः’ इत्यस्य विलोमपदं श्लोकात् चित्वा लिखत।
(ग) ‘हयाश्च नागाश्च वहन्ति बोधिताः’ इति वाक्ये किं क्रियापदम्?
(घ) श्लोके ‘गृह्यते’ इति क्रियायाः कर्तृपदं किम्?
उत्तरम्:
(क) हयाः
(ख) पण्डितः
(ग) वहन्ति
(घ) पशुना

प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) (½ × 2 = 1)
(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति?
(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति?
(ग) कस्य इदं राज्यम् अस्ति?
उत्तरम्:
(क) प्रतिप्रियम्
(ख) नन्दस्य
(ग) चन्द्रगुप्तस्य

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नएकमेव) (1 × 1 = 1)
(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्?
(ख) राजानः किम् इच्छन्ति?
उत्तरम्:
(क) चन्दनदासेन चाणक्यस्य आदेशः प्रष्टव्यः।
(ख) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।

(iii) निर्देशानुसारम् उत्तरत (केवलं प्रश्नत्रयमेव) (1 × 3 = 3)
(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्?
(ग) ‘किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्?
(घ) नाट्यांशे ‘प्रेम’ इति पदस्य कः पर्यायः अस्ति?
उत्तरम्:
(क) अपरिक्लेशः
(ख) अहम्
(ग) आदिष्यते
(घ) प्रीतिम्

प्रश्न 15.
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुर्णामेव) (1 × 4 = 4)

(i) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
(क) के
(ख) कः
(ग) कथम्
(घ) काः
उत्तरम्:
(क) के

(ii) समीपे एका नदी प्रवहति।
(क) कीदृशी
(ख) काः
(ग) का
(घ) कुत्र
उत्तरम्:
(ग) का

(iii) अतिदाक्षिण्येन अलम्।
(क) कथम्
(ख) केन
(ग) कः
(घ) कया
उत्तरम्:
(ख) केन

(iv) गहनकानने सा व्याघ्रं ददर्श।
(क) के
(ख) कस्मिन्
(ग) कदा
(घ) कुत्र
उत्तरम्:
(घ) कुत्र

(v) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(क) का
(ख) काः
(ग) कीदृशी
(घ) के
उत्तरम्:
(ग) कीदृशी

प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत- (½ × 8 = 4)

(i) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

अन्वयः – यः ___________ वाचं त्यक्त्वा ___________ अभ्युदीरयेत् (स:) ___________ पक्वं फलं परित्यज्य अपक्वं ___________।

(ii) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः – सर्वेषु च ___________ जननी ___________ भवति। परं माता दीने ___________ तु ___________ भवेत्।

अथवा

अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत- (1 × 4 = 4)

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

भावार्थ: – य: नरः आत्मनः ___________ इच्छति, तस्य ___________ अपि इच्छा अस्ति, सः ___________ कृते कदापि अकल्याणकर ___________ न कुर्यात् इति अवधातव्यम्।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

उत्तरम्:
(i) धर्मप्रदां, परुषाम्, विमूढधीः, भुङ्क्ते।
(ii) अपत्येषु, तुल्यवत्सला, पुत्रे, कृपार्द्रहृदया
अथवा
कल्याणम्, सुखप्राप्तेः, अन्येषाम्, कार्यम्

प्रश्न 17.
अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत- (½ × 8 = 4)

(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालक: व्याघ्रः सहसा पलायित:।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुक: व्याघ्र पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।
उत्तरम्:
(i) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(ii) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(iii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।
(iv) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(v) जम्बुक: व्याघ्रं पुनः तत्र गन्तुं प्रेरितवान्।
(vi) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(vii) गलबद्धशृगालकः व्याघ्रः सहसा पलायितः।
(viii) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।

प्रश्न 18.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत (केवलं प्रश्नत्रयमेव) (1 × 3 = 3)

(i) अत्र जीवनं दुर्वहं जातम्।
सरलम् / कठिनम् / जटिलम्

(ii) संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
संस्काराणाम् / संलापानाम् / व्यापाराणाम्

(iii) तौयैः अल्पैः अपि तरोः पुष्टिः भवति।
जलै: / त्वग्भि / दुग्धैः।

(iv) अवक्रता यथा चित्रे भवेत्।
सरलता / कठोरता / मृदुता
उत्तरम्:
(i) कठिनम्
(ii) संस्काराणाम्
(iii) जलै:
(iv) सरलता

Previous Post

Abhyasvan Bhav Sanskrit Class 10 Chapter 13 मिश्रिताभ्यासः

Next Post

Abhyasvan Bhav Sanskrit Class 10 Chapter 1 अपठितावबोधनम्

Related

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

Categories

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized

Recent

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 2 पत्रलेखनम्

NCERT Class Solutions

We provide NCERT Solutions

NCERT Class Solutions App Play Store

Follow Us

Browse By Category

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized
  • Write for Us
  • Privacy Policy
  • Contact Us

© 2022 NCERT Class Solutions .

No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers

© 2022 NCERT Class Solutions .

This website uses cookies. By continuing to use this website you are giving consent to cookies being used. Visit our Privacy and Cookie Policy.