NCERT Class Solutions
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers
No Result
View All Result
NCERT Class Solutions
No Result
View All Result
ADVERTISEMENT
Home Class 10th Solutions 10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 1 अपठितावबोधनम्

by Sudhir
August 4, 2022
in 10th Sanskrit, Class 10th Solutions
Reading Time: 2 mins read
0
NCERT Class 10th Sanskrit Solutions
172
VIEWS
Share on FacebookShare on Twitter

We are providing NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Chapter 1 अपठितावबोधनम् Solutions in easy way to get good marks in the Exam

Abhyasvan Bhav Sanskrit Class 10 Chapter 1 अपठितावबोधनम्

अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

1. धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते। शरीरस्य स्वास्थ्यरक्षणाय फलस्यास्य प्रयोगः अवश्यमेव कर्त्तव्यः। इंद फल नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति। सामान्यतया अस्य प्रयोगः अवलेहरूपेण, उपदंशरूपेण च भवति। इदं रक्तकोशिकानिर्माणे अपि सहायकं भवति। अस्य सेवनेन शरीरे रक्ताल्पता न भवति। ग्रीष्मर्ती फलमिदं शरीरस्य तापम् अपनयति। अस्य नियमितसेवनेने स्मरणशक्तिरपि वर्धते। प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ छात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्। केषुचित् स्थलेषु अधुना अपि एषा परम्परा परिपाल्यते। वृक्षस्य अधः भोजनं पच्यते चेत् भोजनं सुस्वादु स्वास्थ्यवर्धकं च भवतीति अस्माकं पूर्वजानां चिन्तनमासीत्। एतदतिरिच्य सहभोजनेन प्रेम्णः भावोऽपि जागर्ति वर्धते च इत्यपि जनाः आमनन्ति। सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) धात्रीफलं कदा लाभदायकं भवति?
उत्तरम्:
सर्वऋतुषु

(ख) धात्रीफलस्य अपरं नाम किम्?
उत्तरम्:
आमलकम्

(ग) धात्रीफलं कस्मिन् सहायकं भवति?
उत्तरम्:
रक्तकोशिकानिर्माणे

(घ) सहभोजनेन कीदृशः भावः जागर्ति?
उत्तरम्:
प्रेम्णः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) धात्रीफलं कथं बहूपयोगि अस्ति?
उत्तरम्:
धात्रीफलं नेत्रयो: ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति।

(ख) प्राचीनकाले कीदृशी परम्परा आसीत्?
उत्तरम्:
प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ धात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सर्वेषु ऋतुषु’ इत्यनयोः पदयोः किं विशेषणपदम्?
उत्तरम्:
सर्वेषु

(ख) ‘क्षीयते’ इति क्रियापदस्य विलामपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
वर्धते

(ग) ‘स्नेहस्य’ इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तरम्:
प्रेम्णः

(घ) ‘अस्य सेवनेन शरीरे रक्ताल्पता न भवति’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपद कस्मै प्रयुक्तम्?
उत्तरम्:
धात्रीफलम्

प्रश्न 4.
अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
धात्रीफलम् महिमा

2. महान् स्वतन्त्रतासेनानी स्वतन्त्रभारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः 1875 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकाया जन्म अलभत्। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिका निर्वहन पटेलमहोदयः अद्यापि सर्वेषां भारतवासिना श्रद्धाभाजनः। पटेलमहोदयं प्रति कृतज्ञता प्रकटयितुं गुजरातप्रान्तस्य तत्कालीनः मुख्यमंत्री नरेन्द्रमोदीमहोदयः 2013 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकायां तस्य मूर्तेः शिलान्यासं कृतवान्। अस्याः विशालकायायाः मूर्तेः निर्माणे पञ्च वर्षाणां कालः उपयुक्तः। तस्यैव जन्मदिवसे अक्तूबरमासस्य एकत्रिंशत् दिनाङ्क एव भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन मूर्तिरियं राष्ट्राय समर्पिता। इयं प्रतिमा एकतायाः मूर्तिः (स्टैच्यू ऑफ़ युनिटी) इति नाम्ना ख्याता अस्ति। इदं स्मारकं सरदारसरोवरबन्धतः प्रायशः त्रिकिलोमीटरमितं दूरे साधूबेरनामके उपद्वीपे स्थितमस्ति। अस्याः प्रतिमायाः उच्चता द्वयशीत्यधिकशमीटरमितम् (182 मी./597 फीट) अस्ति। इयं विश्वस्य उच्चतमा मूर्तिः अस्ति। मूर्तिः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च कः आसीत्?
उत्तरम्:
सरदार-वल्लभभाईपटेलमहोदयः

(ख) पटेलमहोदयः कस्मिन् केन्द्रीयां भूमिका निर्वाहितवान्?
उत्तरम्:
प्रान्तानाम् एकीकरणे

(ग) नरेन्द्रमोदीमहोदयेन मूर्तिः कस्मै समर्पिता?
उत्तरम्:
राष्ट्राय

(घ) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
उत्तरम्:
एकतायाः मूर्तिः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) कः सर्वेषां भारतीयानां श्रद्धाभाजन:?
उत्तरम्:
सरदार-वल्लभभाई पटेलमहोदयः प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिका निर्वहनं सर्वेषां भारतीयानां भारतवासिना श्रद्धाभाजनः।

(ख) मूर्तेः उच्चता किं सूचयति?
उत्तरम्:
मूर्ते: उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचयाति।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘केन्द्रीयां भूमिकाम्’ इत्यनयोः पदयोः किं विशेष्यपदम्?
उत्तरम्:
भूमिकाम्

(ख) ‘तस्यैव जन्मदिवसे ………… समर्पिता’? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
पटेलमहोदयाय

(ग) ‘समीपे’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
दूरे

(घ) ‘महान् स्वतन्त्रतासेनानी जन्म अलभत’ इत्यस्मिन् वाक्ये किं क्रियापदम्?
उत्तरम्:
अलभत

प्रश्न 4.
अनुच्छेदस्यास्य कृते समुचितं शीर्षक लिखत।
उत्तरम्:
लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः

3. जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति। सफलता परिश्रमिणः पुरुषस्य चरणौ चम्बति। विद्यार्थी परिश्रमेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति। शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः। ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्ट व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धं परिश्रमम् अवश्यं करणीयम्। अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यास न करोति तदा असफलः भवति, परं सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति-“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति। अत एव छात्राः सर्वदा परिश्रमस्य अवलम्बनं कुर्वन्तु, भागयस्यशरणं मा गच्छन्तु।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) साफल्यं लब्धं किं करणीयम्?
उत्तरम्:
परिश्रमम्

(ख) सर्वाणि कार्याणि केन सिध्यन्ति?
उत्तरम्:
परिश्रमेण

(ग) कः असफलः भवति?
उत्तरम्:
आलसी

(घ) अध्ययनशीलः छात्रः किं प्राप्नोति?
उत्तरम्:
सफलता

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) ‘उद्यमेनैव ………………. मनोरथैः’ इति उक्तिः किं स्मारयति?
उत्तरम्:
कर्मसहचरी इच्छा एव साकाररूपताम् एति।

(ख) धनस्य देवी के प्रति गच्छति?
उत्तरम्:
धनस्य देवी उद्योगिनं पुरुषं प्रति गच्छति।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘परिश्रमस्य अवलम्बनं कुर्वन्तु’ इति वाक्ये किं क्रियापदम्?
उत्तरम्:
कुर्वन्तु

(ख) ‘कुशाग्रबुद्धिः’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
मेधावी

(ग) ‘कर्मसहचरी इच्छा’ इत्यनयोः पदयोः किं विशेषणपदम्।
उत्तरम्:
कर्मसहचरी

(घ) विद्यार्थी परिश्रमेण ज्ञानं लभते इत्यस्मिन् वाक्ये किं कर्तृपदम्?
उत्तरम्:
विद्यार्थी

प्रश्न 4.
अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
परिश्रमस्य महत्त्वम्

4. जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्याना शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति जीवनलच्यं च प्राप्नोति। भारतीयसंस्कृती आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) मानवः स्वीकार्य पुरुषार्थं कृत्वा किं प्राप्नोति?
उत्तरम्:
जीवनलक्ष्यम्

(ख) कस्य उत्थानाय दयादिगुणानां महती आवश्यकता?
उत्तरम्:
मानवजीवनस्य

(ग) सर्वाङ्गीणविकासाय केन समं नैतिकमूल्यान्यपि गृहीतव्यानि?
उत्तरम्:
पुस्तकीयज्ञानेन

(घ) केषु बाल्यादेव एते संस्काराः स्थापनीयाः?
उत्तरम्:
छात्रेषु

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) मनुष्यः वास्तवः मनुष्य: कैगुणैः भवति?
उत्तरम्:
यदा सः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः एतैः गुणैः सुशोभितः भवति।

(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
उत्तरम्:
प्राचीनकालादेव भारतं विश्वगुरुपदं भारतीय संस्कृतेः मूल्यपरक गुणैः प्राप्नोत्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सर्वाङ्गीण विकास’ अत्र विशेषणपदं किम्?
उत्तरम्:
सर्वाङ्गीण।

(ख) ‘भारत विश्वगुरुपदं प्राप्नोत्’ अत्र प्राप्नोत् इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
भारतं

(ग) गद्यांशे ‘सज्जितः’ इति पदस्य कृते पर्यायपदं किं प्रयुक्तम्?
उत्तरम्:
सुशोभितः

(घ) ‘मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति’ अत्र ‘एतेषां’ सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
जीवनस्य मूल्यम् / मानवीयगुणाः

प्रश्न 4.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तरम्:
जीवनमूल्यशिक्षायाः महत्वम्

5. एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्। मम सहपाठिना जीवन पर्वतस्य इव उच्चम् मम च जीवन धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थिती आस्ताम्। वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्ण जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य। सत्यमेवास्ति-दूरतः पर्वताः रम्याः। इति

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-
(क) अकिञ्चनस्य कक्षायाः अन्ये छात्राः कीदृश-परिवारेभ्यः आसन्?
उत्तरम्:
सम्पन्नपरिवारेभ्यः

(ख) अकिञ्चनस्य मनसि किम् प्राविशत्?
उत्तरम्:
हीनभावना

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) अकिञ्चनस्य पिता कः आसीत्?
उत्तरम्:
अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्।

(ख) अकिञ्चनः हीनभावनया किम् अचिन्तयत्?
उत्तरम्:
सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सम्पन्नान्’ इति पदस्य विशेष्यपदं किम् अस्ति?
उत्तरम्:
छात्रान्

(ख) ‘आस्ताम्’ इति पदस्य कर्तृपदं किम् अस्ति?
उत्तरम्:
मातापितरौ

(ग) ‘निकटतः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तरम्:
दूरतः

(घ) ‘वैभवः तम् अवदत्’ इति वाक्यांशे ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
अकिञ्चनाय

प्रश्न 4.
गद्यांश पठित्वा यथोचित शीर्षकं लिखत-
उत्तरम्:
दूरतः पर्वताः रम्याः

6. विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव आह्वावकारी, परं निरन्तरं विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धित येनास्माकमेव स्वास्थ्यहानिः भवति। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूणयम् एतत् त्रिविधं प्रदूषणमेव मुख्यतया सर्व वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे काहिन्यं वर्धते। एतत् सर्वेषां स्वास्थ्याय हानिकर सिध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनाना ‘पों पों’ इति शृङ्गवादनेन, ध्वनिविस्तारकयन्त्रैश्चापि, भवति। अनेन श्रवणशक्तेः हानिर्भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव।
तस्मादस्माकं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य निर्माणं वयं कुर्याम, येन वायुप्रदूषणम् अस्माकं स्वास्थ्यं नाशयितुं सक्षम न भवेत्। तथैव ध्वनिप्रदूषण जलप्रदूषणञ्चापि रोद्धम् वयं सर्वे मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) मुख्यतया प्रदूषणं कतिविधं भवति?
उत्तरम्:
त्रिविधं

(ख) ध्वनिप्रदूषणेन कस्याः हानिः भवति
उत्तरम्:
श्रावणशक्तेः

(ग) केन निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी?
उत्तरम्:
विधात्रा

(घ) सर्वैः मिलित्वा प्रदूषणावरोधाय किम् विधेयम्?
उत्तरम्:
प्रयासम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) अद्यत्वे अस्माकं स्वास्थ्यहानिः कथं भवति?
उत्तरम्:
विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धितं येन अस्माकम् एव स्वास्थ्य हानिः भवति।

(ख) वयं मिलित्वा का भावनां बलं प्राप्नुयाम्?
उत्तरम्:
वयं मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) सततम्/अनवरतम् इत्यर्थ किं पदम् अनुच्छेदं प्रयुक्तम्?
उत्तरम्:
निरन्तरं

(ख) ‘क्षीयते’ इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
उत्तरम्:
वर्धते

(ग) ‘सौन्दर्यमयी सृष्टिः’ अत्र विशेष्यपदं किम्?
उत्तरम्:
सृष्टिः

(घ) ‘विकासेन सह प्रदूषणमपि वर्धितम् येन स्वास्थ्यहानिः भवति’ अत्र ‘भवति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
येनास्माकमेव / येन

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
प्रदूषणम्

7. अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते। जनप्सङ्ख्यावृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति। एतस्मात् कारणात् वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेन पर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते। जीवाश्मेन्धनस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते। यतः सौरविकिरणं भूमेः वातावरणे निबद्ध इव तिष्ठति, तापमानं च निरन्तरं वर्धमानम् एवास्ति। एतादृश्याः स्थितेः निराकरणाय अनियन्त्रितम् औद्योगीकरण निवारणीयम्। एतदेव वस्तुत सम्पूर्ण विश्वस्य कृते समस्याम् उत्पादयति। अतः सर्वैः मिलित्वैव स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयं, सामान्यविद्युदपेक्षया पवनोर्जसं, सौरोजसं प्रति च ध्यान दातव्यम्। वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) कस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते?
उत्तरम्:
जीवाश्मेन्धनस्य

(ख) कीदृशम् औद्योगीकरण निवारणीयम्?
उत्तरम्:
अनियन्त्रिम्

(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते?
उत्तरम्:
पर्यावरणअसन्तुलनात्

(घ) वृक्षारोपणं कृत्वा किं प्रत्यपि ध्यानं दातव्यम्?
उत्तरम्:
वनसंरक्षणं

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) वैश्विकी उष्णता कथं वर्धते?
उत्तरम्:
जनसंख्यावृद्धेः कारणात् भावनानां निर्माणाय वृक्षाः कर्त्यन्ते, वजनानि क्षेत्राणि चाऽपि विनाश्यन्ते। अनेन पर्यावरण असन्तुलनात् वैश्विकी उष्णता वर्धते।

(ख) वैश्विकोष्णतायाः स्थिते: संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातव्यम्?
उत्तरम्:
वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रति ध्यानं दातव्यम्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘दूरीकरणाय’ अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तरप:
निराकरणाय

(ख) ‘वृक्षकर्तनम्’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
उत्तरम्:
वृक्षारोपणं

(ग) ‘उष्णतायाः प्रभावः दिनानुदिनं वर्धते’ अस्मिन् वाक्ये ‘वर्धते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
उष्णतायाः प्रभावः

(घ) ‘अनियन्त्रितम्’ औद्योगीकरणम्’ अत्र विशेषणपदं किम्?
उत्तरम्:
अनियन्त्रितम्

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत-
उत्तरम्:
उष्णतायाः प्रभाव:

8. मानवः विकासशीलः। वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव सततं प्रवर्धमाना अस्ति। अस्मात् कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माणं कृतवान्। एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यस्था कतुं शक्यते। अत्र उन्नयनयन्त्रेण (लिफ़्ट इति अनेन) उपरिगमनम् अधः आगमनं च अतीव सकर भवति। अत एव जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति। अद्यत्वे नगरेषु महानगररेषु च बहुभूमिकभवनानां प्रचलनमेव वर्तते। एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदन, ‘जिम’ इति व्यायामस्थानाम्, उद्यानम् इत्यादीनि उपयोगीनि सुविधाप्रदायकसाधनानि अपि भवन्ति। अतिशोभनमेतत् सर्व पर विकास प्रति अन्धधावनशीलः मानवः प्रकृतेः उपेक्षा करोति इति अनुचितं प्रतीयते। अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) जनसङ्ख्या कथम् वर्धते?
उत्तरम्:
सुरसामुखमिव

(ख) बहुभूमिक-भवनेषु उपरिगमनम् अधः आगमनं केन सुकरं भवति?
उत्तरम्:
उन्नयनयन्त्रण

(ग) विकासं प्रति अन्धधावनशील: मानवः कस्याः उपेक्षां करोति?
उत्तरम्:
प्रकृतेः

(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?
उत्तरम्:
बहुभूमिकभवनानां

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) प्रचुरनिवासस्थानस्य कृते मानवः किं कृतवान्?
उत्तरम्:
एतत्कृते मानव: नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माण कृतवान्।

(ख) बहुभूमिकभवनानां परिसरे कानि सुविधासाधनानि भवन्ति?
उत्तरम्:
एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यवस्था कर्तुम् शक्यते।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘मानवः बहुभूमिकभवानानां निर्माणं कृतवान्’-अत्र किं क्रियापदम्?
उत्तरम्:
कृतवान्

(ख) ‘एतादृशानि भवनानि’-अनयोः पदयोः किं विशेष्यपदम्?
उत्तरम्:
भवनानि

(ग) ‘अद्यत्वे बहुभूमिकभवनानां प्रचलनं वर्तते’- अत्र किम् अव्ययपदम्?
उत्तरम्:
अद्यत्वे

(घ) ‘उचितम्’-इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तरम्:
अनुचितम्

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
प्रकृतेः संरक्षणम् / अस्माकं प्रकृतिः / प्रकृतिः

Previous Post

CBSE Class 10 Sanskrit आदर्शप्रश्नपत्रम् Solved

Next Post

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

Related

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions
10th Sanskrit

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Categories

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized

Recent

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 4 चित्रवर्णनम्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 3 अनुच्छेदलेखमन्

NCERT Class 10th Sanskrit Solutions

Abhyasvan Bhav Sanskrit Class 10 Chapter 2 पत्रलेखनम्

NCERT Class Solutions

We provide NCERT Solutions

NCERT Class Solutions App Play Store

Follow Us

Browse By Category

  • Books
    • Class 10 Books PDF
  • Class 10th Solutions
    • 10th English
    • 10th Hindi
    • 10th Maths
    • 10th Sanskrit
    • 10th Science
    • 10th Social Science
  • Class 9th Solutions
    • 9th Maths
    • 9th Science
    • 9th Social Science
  • MP Board
  • Uncategorized
  • Write for Us
  • Privacy Policy
  • Contact Us

© 2022 NCERT Class Solutions .

No Result
View All Result
  • Home
  • 9th Solutions
    • Maths Solutions
    • Science Solutions
    • Social Science Solutions
  • 10th Solutions
    • Science Solutions
    • Maths Solutions
    • Social Science Solutions
    • English Solutions
    • Hindi Solutions
    • Sanskrit Solutions
  • NCERT Books
    • Class 10 Books PDF
    • Class 9 Books PDF
  • About Us
    • Write for Us
    • Contact Us
    • Privacy Policy
    • Disclaimer
  • MP Board
    • MP Board Solutions
    • Previous Year Papers

© 2022 NCERT Class Solutions .

This website uses cookies. By continuing to use this website you are giving consent to cookies being used. Visit our Privacy and Cookie Policy.